मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम्। पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेडभिधानि 🍫 मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते 👔 न्यवेशयत्। विपणी तच्चौर्यं नापश्यत् ।
ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्। पश्य मम साहसम्। विपणिना अदृष्ट एव सुकरमहमचूचुरम् इति ।
देवदत्तः तं तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम् । आगच्छ विपणिं पुनः प्रविशाव इत्यब्रवीत् ।
तौ विपणिं प्रविष्टौ ।
देवदत्तः विपणिनमवदत्। आर्य अनुमन्यसे चेत् तुभ्यं मायामेकां 🪄 दर्शयितुमिच्छामि इति ।
विपणी अनुमेने ।
देवदत्तः विपणिनमवदत्। मह्यं त्रीणि चाकोलेण्मिष्टानि देहि इति ।
विपणी तथैव अकरोत् ।
देवदत्तः तानि प्रसभमखादत् । 😋
क्रुद्धः 😠 विपणी देवदत्तमपृच्छत्। तत्र का माया ।
देवदत्तः अवदत्। इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि सन्ति इति । 😜
~ जी एस् एस् मूर्तिः #hasya